(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.276. अध्यायः 276
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति गोकपिलसंवादानुवादः॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

कपिल उवाच। 12-276-0x(6329)(76341)
वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतः कृताः।
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्॥ 12-276-1(76342)
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति।
शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम्॥ 12-276-2(76343)
कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः।
आनन्त्यमनुचिन्त्येदं कर्मणां तद्ब्रबीमि ते॥ 12-276-3(76344)
निरागममनैतिह्यमत्यक्षं लोकसाक्षिकम्।
धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः॥ 12-276-4(76345)
उत्पन्नत्यागिनो लुब्धाः कृपासूयाविवर्जिताः।
धनिनामेष वै पन्थास्तीर्थेषु प्रतिपादनम्॥ 12-276-5(76346)
अनाश्रिताः पापकृत्याः कदाचित्कर्मयोगिनः।
मनः संकल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः॥ 12-276-6(76347)
अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः।
ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः॥ 12-276-7(76348)
आसन्गृहस्था भूयिष्ठा अपक्रान्ताः स्वकर्मसु।
राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि॥ 12-276-8(76349)
समा ह्यार्जवसंपन्नाः संतुष्टा ज्ञाननिश्चयाः।
प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे॥ 12-276-9(76350)
पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः।
चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवापि संहताः॥ 12-276-10(76351)
संहत्य धर्मं चरतां पुराऽऽसीत्सुखमेव तत्।
तेषां नासीद्विधातव्यं प्रायश्चित्तं कथंचन॥ 12-276-11(76352)
सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः।
न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः॥ 12-276-12(76353)
य एव प्रथमः कल्पस्तमेवात्र चरन्महान्॥ 12-276-13(76354)
अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते।
यदा तु दुर्बलात्मानः प्रायश्चित्तं तदा भवेत्॥ 12-276-14(76355)
एत एवंविधाः प्राहुः पुराणा यज्ञवाहनाः।
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः॥ 12-276-15(76356)
यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः।
तेषा यज्ञाश्च वेदाश्च कर्माणि च यथागमम्॥ 12-276-16(76357)
आगमाश्च यथाकामं संकल्पाश्च यथाव्रतम्।
अपेतकामक्रोधानां दुश्चराचारकर्मणाम्॥ 12-276-17(76358)
स्वकर्मभिः शंसितानां प्रकृत्या शंसितात्मनाम्।
ऋजूनां शमनित्यानां स्वेषु कर्मसु वर्तताम्॥ 12-276-18(76359)
सर्वमानन्त्यमेवासीदिति नः शाश्वताश्चुतिः।
तेषामदीनसत्वानां दुश्चराचारकर्मणाम्॥ 12-276-19(76360)
स्वकर्मभिः संसितानां तपो घोरत्वमागतम्।
सं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्॥ 12-276-20(76361)
अशक्नुवद्भिश्चरितुं किंचिद्धर्मेषु सूचितम्।
निरापद्धर्म आचारो ह्यप्रमादोऽपराभवः॥ 12-276-21(76362)
सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः।
धर्ममेकं चतुष्पादमाश्रितास्ते नरा विभो॥ 12-276-22(76363)
तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम्।
गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः॥ 12-276-23(76364)
गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः।
`व्यस्तमेकं चतुर्धा तु ब्राह्मणा आश्रमं विदुः॥ 12-276-24(76365)
सर्वे सर्वत्र तिष्ठन्तो गच्छन्ति परमां गतिम्।
एव एवंविधाः प्राहुः पुराणा ब्रह्मचारिणः॥' 12-276-25(76366)
त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः।
नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः।
आनन्त्यमुपसंप्राप्ताः संतोषादिति वैदिकम्॥ 12-276-26(76367)
यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः।
न लिप्यन्ते पारकृत्यैः कदाचित्कर्मयोनितः॥ 12-276-27(76368)
एवमेव ब्रह्मचारी शुश्रूषुर्घोरनिश्चयः।
एवंयुक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत्॥ 12-276-28(76369)
कर्मैव पुरुषस्याह शुभं वा यदि वाऽशुभम्।
एवं पक्वकषायाणामानन्त्येन श्रुतेन च॥ 12-276-29(76370)
सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः।
तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम्॥ 12-276-30(76371)
चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः।
संसिद्धैः सेव्यते नित्यं ब्राह्मणैर्नियतात्मभिः॥ 12-276-31(76372)
संतोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते।
अपवर्गमतिर्नित्यो यतिधर्मः सनातनः॥ 12-276-32(76373)
साधारणः केवलो वा यथाबलमुपास्यते।
गच्छन्ते बलिनः क्षेमं दुर्बलोऽत्रावसीदति।
ब्राह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः॥ 12-276-33(76374)
स्यूमरश्मिरुवाच। 12-276-34x(6330)
ये भुञ्जते ये ददते यजन्तेऽधीयते च ये।
मात्राभिर्धर्मलुब्धाभिर्ये वा त्यागं समाश्रिताः॥ 12-276-34(76375)
एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः।
एतदाचक्ष्व मे ब्रह्मन्याथातथ्येन पृच्छतः॥ 12-276-35(76376)
कपिल उवाच। 12-276-36x(6331)
परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ते।
न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि॥ 12-276-36(76377)
स्यूमरश्मिरुवाच। 12-276-37x(6332)
भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः।
आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते॥ 12-276-37(76378)
एकत्वेन पृथक्त्वेन विशेषो नान्य उच्यते।
तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे॥ 12-276-38(76379)
कपिल उवाच। 12-276-39x(6333)
शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः।
पक्वे कषायविज्ञानं यथा ज्ञानं च तिष्ठति॥ 12-276-39(76380)
आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम्।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा शमस्तथा॥ 12-276-40(76381)
पन्थानो ब्रह्मणस्त्वेत एतैः प्राप्नोति यत्परम्।
तद्विद्वाननुबुद्ध्येत मनसा कर्मनिश्चयम्॥ 12-276-41(76382)
यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः।
गतिं गच्छन्ति संतुष्टास्तामाहुः परमां गतिम्॥ 12-276-42(76383)
वेदांश्च वेदितव्यं च विदित्वा च यथास्थितिम्।
एवं वेदविदित्याहुरतोऽन्यो वातरेचकः॥ 12-276-43(76384)
सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम्।
वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च॥ 12-276-44(76385)
एषैव निष्ठा सर्वत्र यत्तदस्ति च नास्ति च।
एतदन्तं च मध्यं च सच्चाऽसच्च विजानतः॥ 12-276-45(76386)
समाप्तं त्याग इत्येव शम इत्येव निश्चितम्।
संतोष इत्यनुगतमपवर्गे प्रतिष्ठितम्॥ 12-276-46(76387)
ऋतं सत्यं विदितं वेदितव्यं
सर्वस्यात्मा स्थावरं जङ्गमं च।
सर्वं सुखं यच्छिवमुत्तरं च
ब्रह्माव्यक्तं प्रभवश्चाव्ययं च॥ 12-276-47(76388)
तेजः क्षमा शान्तिरनामयं शुभं
तथाविधं व्योम सनातनं ध्रुवम्।
एतैः शब्दैर्गम्यते बुद्धिनेत्रै
स्तस्मै नमो ब्रह्मणे ब्राह्मणाय॥ ॥ 12-276-48(76389)

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्सप्तत्यधिकद्विशततमोऽध्यायः॥ 276॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-276-5 धनानामेष वै पन्था इति झ.ट. थ. पाठः॥ 12-276-14 दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः इति झ. पाठः॥ 12-276-39 कषायपङ्क्ति कर्माणीति ट. थ. पाठः॥ 12-276-41 मनसा धर्मनिश्चयमिति ध. पाठः॥ 12-276-43 रतोन्यो वेदवादक इति ट. थ. पाठः। वेदपातक इति ध. पाठः॥ 12-276-46 इत्येव सर्ववेदेषु निष्ठितमिति झ. पाठः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.